|
|
 |
 |
|
|
७ द्रोणपर्व.jpg)
॥ श्रीः ॥
7.149. अध्यायः 149
Mahabharata - Drona Parva - Chapter Topics
अर्जुनेन निजशराहतिमोहितं कृपम्प्रति शोचनम्॥ 1 ॥ सार्जुनेन कृष्णेन युधिष्ठिरमेत्य जयद्रथवधकथनम्॥ 2 ॥ भीमादीनां युधिष्ठिरसमीपसमागमनम्॥ 3 ॥

Mahabharata - Drona Parva - Chapter Text
धृतराष्ट्र उवाच। 7-149-0x(4656)(51505)
तस्मिन्विनिहते वीरे सैन्धवे सव्यसाचिना।
मामका यदकुर्वन्त तन्ममाचक्ष्व सञ्जय॥ 7-149-1(51506)
`पश्यतां सर्वसैन्यानां मामकानां महारणे।
अहन्यत कथं युद्धे सैन्धवः सव्यसाचिना॥ 7-149-2(51507)
कथं द्रौणिकृपैर्गुप्तः कर्णेन च महारणे।
फल्गुनाग्निमुखं घोरं प्रविष्टः साधु सैन्धवः॥ 7-149-3(51508)
तस्मिन्हते महेष्वासे मन्दात्मा स सुयोधनः।
भ्रातृबिः सहितः सूत किमकार्षीदनन्तरम्'॥ 7-149-4(51509)
सञ्जय उवाच। 7-149-5x(4657)
सैन्धवं निहतं दृष्ट्वा रणे पार्थेन भारत।
अमर्षवशमापन्नः कृपः शारद्वतस्ततः॥ 7-149-5(51510)
महता शरवर्षेण पाण्डवं समवाकिरत्।
द्रौणिश्चाभ्यद्रवद्राजन्रथमास्थाय फल्गुनम्॥ 7-149-6(51511)
तावेतौ रथिनां श्रेष्ठौ रथाभ्यां रथसत्तमौ।
उभावुभयतस्तीक्ष्णैर्विशिखैरभ्यवर्षताम्॥ 7-149-7(51512)
स तथा शरवर्षाभ्यां सुमहद्ध्यां महाभुजः।
पीड्यमानः परामार्तिमगमद्रथिनां वरः॥ 7-149-8(51513)
सोऽजिघांसुर्गुरुं सङ्ख्ये गुरोस्तनयमेव च।
चकाराचार्यकं तत्र कुन्तीपुत्रो धनञ्जयः॥ 7-149-9(51514)
अस्त्रैरस्त्राणि संवार्य द्रौणेः शारद्वतस्य च।
मन्दवेगानिषूंस्ताभ्यामजिघांसुरवासृजत्॥ 7-149-10(51515)
तेन नातिभृशं त्रस्तौ विशिखैर्भृशपीडितौ।
बहुत्वात्तु परामार्तिं शराणां तावगच्छताम्॥ 7-149-11(51516)
अथ शारद्वतो राजन्कौन्तेयशरपीडितः।
अवासीदद्रथोपस्थे मूर्च्छामभिजगाम ह॥ 7-149-12(51517)
विह्वलं तमभिज्ञाय भर्तारं शरपीडितम्।
हतोऽयमिति च ज्ञात्वा सारथिस्तमपावहत्॥ 7-149-13(51518)
तस्मिन्भग्ने महाराज कृपे शारद्वते युधि।
अश्वत्थामाप्यपायासीत्पाण्डवेयाद्रथान्तरम्॥ 7-149-14(51519)
दृष्ट्वा शारद्वतं पार्थो मूर्च्छितं शरपीडितम्।
धिग्धिङ्मामिति चैवोक्त्वा कृपणं पर्यदेवयत्।
अश्रुपूर्णमुखो दीनो वचनं चेदमब्रवीत्॥ 7-149-15(51520)
पश्यन्निदं महाप्राज्ञः क्षत्ता राजानमुक्तवान्।
कुलान्तकरणे पापे जातमात्रे सुयोधने॥ 7-149-16(51521)
नीयतां परलोकाय साध्वयं कुलपांसनः।
अस्माद्धि कुरुमुख्यानां महदुत्पत्स्यते भयम्॥ 7-149-17(51522)
तदिदं समनुप्राप्तं वचनं सत्यवादिनः।
तत्कृते ह्यद्य पश्यामि शरतल्पगतं गुरुम्॥ 7-149-18(51523)
धिगस्तु क्षात्रमाचारं धिगस्तु बलपौरुषम्।
को हि ब्राह्मणमाचार्यमभिद्रुह्येत मादृशः॥ 7-149-19(51524)
ऋषिपुत्रो ममाचार्यो द्रोणस्य परमः सखा।
एष शेते रथोपस्थे कृपो मद्बाणपीडितः॥ 7-149-20(51525)
अकामयानेन मया विशिखैरर्दितो भृशम्।
अवसीदन्रथोपस्थे प्राणान्पीडयतीव मे॥ 7-149-21(51526)
पुत्रशोकाभितप्तेन शरैरभ्यर्दितेन च।
अभ्यस्तो बहुभिर्बाणैर्दशधर्मगतेन वै॥ 7-149-22(51527)
`शरार्दितः स हि मया प्रेक्षमाणो महाद्युतिः'।
शोचयत्येष नियतं भूयः पुत्रवधाद्धि माम्।
कृपणं स्वरथे सन्नं पश्य कृष्ण यथागतम्॥ 7-149-23(51528)
उपाकृत्य तु वै विद्यामाचार्येभ्यो नरर्षभाः।
प्रयच्छन्तीह ये कामान्देवत्वमुपयान्ति ते॥ 7-149-24(51529)
ये च विद्यामुपादाय गुरुभ्यः पुरुषाधमाः। 7-149-25(51530)
घ्नन्ति तानेव दुर्वृत्तास्ते वै निरयगामिनः॥ 7-149-25(51531)
तदिदं नरकायाद्य कृतं कर्म मया ध्रुवम्।
आचार्यं शरवर्षेण रथे सादयता कृपम्॥ 7-149-26(51532)
यत्तत्पूर्वमुपाकुर्वन्नस्त्रं मामब्रवीत्कृपः।
न कथञ्चन कौरव्य प्रहर्तव्यं गुराविति॥ 7-149-27(51533)
तदिदं वचनं साधोराचार्यस्य महात्मनः।
नानुष्ठितं तमेवाजौ विशिखैरभिवर्षता॥ 7-149-28(51534)
नमस्तस्मै सुपूज्याय गौतमायापलायिने।
धिगस्तु मम वार्ष्णेय यदस्मै प्रहराम्यहम्॥ 7-149-29(51535)
सञ्जय उवाच। 7-149-30x(4658)
तथा विलपमाने तु सव्यसाचिनि तं प्रति।
*ततो राजन्हृष्टीकेशः संङ्गामशिरसि स्थितम्।
तीर्णप्रतिज्ञं बीभत्सुं परिष्वज्यैनमब्रवीत्॥ 7-149-30(51536)
दिष्ठ्या सम्पादिता जिष्णो प्रतिज्ञा महती त्वया।
दिष्ट्या विनिहतः पापो वृद्धक्षत्रः सहात्मजः॥ 7-149-31(51537)
धार्तराष्ट्रबलं प्राप्य देवसेनापि भारत।
सीदेत समरे जिष्णो नात्र कार्या विचारणा॥ 7-149-32(51538)
न तं पश्यामि लोकेषु चिन्तयन्पुरुषं क्वचित्।
त्वदृते पुरुषव्याघ्र य एतद्योधयेद्बलम्॥ 7-149-33(51539)
महाप्रभावा बहवस्त्वया तुल्याधिकापि वा।
समेताः पृथिवीपाला धार्तराष्ट्रस्य कारणात्॥ 7-149-34(51540)
ते त्वां प्राप्य रणे क्रुद्धा नाभ्यवर्तन्त दंशिताः।
तव वीर्यं बलं चैव रुद्रशक्रान्तकोपमम्॥ 7-149-35(51541)
नेदृशं शक्नुयात्कश्चिद्रमे कर्तुं पराक्रमम्।
यादृशं कृतवानद्य त्वमेकः शत्रुतापनः॥ 7-149-36(51542)
एवमेव हते कर्णे सानुबन्धे दुरात्मनि।
वर्धयिष्यामि भूयस्त्वां विजितारिं हतद्विषम्॥ 7-149-37(51543)
तमर्जुनः प्रत्युवाच प्रसादात्तव माधव।
प्रतिज्ञेयं मया तीर्णा विबुधैरपि दुस्तरा॥ 7-149-38(51544)
अनाश्चार्यो जयस्तेषां येषां नाथोऽसि केशव।
त्वत्प्रसादान्महीं कृत्स्नां संप्राप्स्यति युधिष्ठिरः॥ 7-149-39(51545)
तवैष भारो धार्ष्णेय तवैव विजयः प्रभो।
वर्धनीयास्तव वयं प्रेष्याश्च मधुसूदन॥ 7-149-40(51546)
एवमुक्तस्ततः कृष्णः शनकैर्वाहयन्हयान्।
दर्शयामास पार्थाय क्रूरमायोधनं महत्॥ 7-149-41(51547)
श्रीकृष्ण उवाच। 7-149-42x(4659)
प्रार्थयन्तो जये युद्धे प्रथितं च महद्यशः।
पृथिव्यां शेरते शूराः पार्थिवास्त्वच्छरैर्हताः॥ 7-149-42(51548)
विकीर्णशस्त्राभरणा विपन्नाश्वरथद्विपाः।
सञ्छिन्नभिन्नमर्माणो वैक्लव्यं परमं गताः॥ 7-149-43(51549)
ससत्वा गतसत्वाश्च प्रभया परया युताः।
सजीवा इव लक्ष्यन्ते गतसत्वा नराधिपाः॥ 7-149-44(51550)
तेषां शरैः स्वर्णपुङ्खैः शस्त्रैश्च विविधैः शितैः।
वाहनैरायुधैश्चैव सम्पूर्णां पश्य मेदिनीम्॥ 7-149-45(51551)
वर्मभिश्चर्मभिर्हारैः शिरोभिश्च सकुण्डलैः।
उष्णीषैर्मकुटैः स्रग्भिश्चूडामणिभिरम्बरैः॥ 7-149-46(51552)
कण्ठसूत्रैरङ्गदैश्च निष्कैरपि च सप्रभैः।
अन्यैश्चाभरणैश्चित्रैर्भाति भारत मेदिनी॥ 7-149-47(51553)
[अनुकर्षैरुपासङ्गैः पताकाभिर्ध्वजैस्तथा।
उपस्करैरधिष्ठानैरीषादण्डकबन्धुरैः॥ 7-149-48(51554)
चक्रैः प्रमथितैश्चित्रैरक्षैश्च बहुधा रणे।
युगैर्योक्त्रैः कलापैश्च धनुर्भिः सायकैस्तथा॥ 7-149-49(51555)
परिस्तोमैः कुथाभिश्च परिघैरङ्कुशैस्तथा।
शक्तिभिर्भिण्डिपालैश्च तूणैः शूलैः परश्वथैः॥ 7-149-50(51556)
प्रासैश्च तोमरैश्चैव कुन्तैर्यष्टिभिरेव च।
शतघ्नीभिर्भुशुण्डीभिः खङ्गैः परशुभिस्तथा॥ 7-149-51(51557)
मुसलैर्मुद्गरैश्चैव गदाभिः कुणपैस्तथा।
सुवर्णविकृताभिश्च कशाभिर्भरतर्षभ॥ 7-149-52(51558)
घण्टाभिश्च गजेन्द्राणां भाण्डैश्च विविधैरपि।
स्रग्भिश्च नानाभरणैर्बस्त्रैश्चैव महाधनैः।
अपविद्धैर्बभौ भूमिर्ग्रहैर्द्यौरिव शारदी॥ 7-149-53(51559)
पृथिव्यां पृथिवीहेतोः पृथिवीपतयो हताः।
पृथिवीमुपगुह्याङ्गैः सुप्ताः कान्तामिव प्रियाम्॥ 7-149-54(51560)
इमांश्च गिरिकूटाभान्नागानैरावतोपमान्।
क्षरतः शोणितं भूरि शस्त्रच्छेददरीमुखैः।
दरीमुखैरिव गिरीन्गैरिकाम्बुपरिस्रवान्॥ 7-149-55(51561)
तांश्च बाणहतान्वीर पश्य निष्टनतः क्षितौ।
हयांश्च पतितान्पश्य स्वर्णभाण्डविभूषितान्॥ 7-149-56(51562)
गन्धर्वनगराकारान्रथांश्च निहतेश्वरान्।
छिन्नध्वजपताकाक्षान्विचक्रान्हतसारथीन्॥ 7-149-57(51563)
निकृत्तकूबरयुगान्भग्नेषान्बन्धुरान्प्रभो।
पश्य पार्थ हयान्भूमौ विमानोपमदर्शनान्॥ 7-149-58(51564)
पत्तींश्च निहतान्वीर शतशोऽथ सहस्रशः।
धनुर्भृतश्चर्मभृतः शयानान्रुधिरोक्षितान्॥ 7-149-59(51565)
महीमालिङ्ग्य सर्वाङ्गैः पांसुध्वस्तशिरोरुहान्।
पश्य योधान्महाबाहो त्वच्छरैर्भिन्नविग्रहान्॥ 7-149-60(51566)
निपातितद्विपरथाजिसङ्कुल--
मसृग्वसापिशितसमृद्धकर्दमम्।
निशाचरश्ववृकपिशाचमोदनं
महीतलं नरवर पश्य दुर्दृशम्॥ 7-149-61(51567)
इदंमहत्त्वय्युपपद्यते प्रभो
रणाजिरे कर्म यशोऽभिवर्धनम्।
शतक्रतौ चापि च देवसत्तमे
महाहवे जघ्नुषि दैत्यदानवान्॥] 7-149-62(51568)
सञ्जय उवाच। 7-149-63x(4660)
एवं सन्दर्शयन्कृष्णो रणभूमिं किरीटिने।
स्वैः समेतः समुदितैः पाञ्चजन्यं व्यनादयत्॥ 7-149-63(51569)
`सात्यकिः पार्थमभ्यायाद्भीमसेनश्च पाण्डवः।
युधामन्यूत्तमौजौ च पाञ्चालस्यात्मजावुभौ॥ 7-149-64(51570)
ते निवार्य शरैर्द्रौणिं कर्णं च सह भूमिपैः।
आगच्छन्रथिनश्चैव यत्र राजा युधिष्ठिरः'॥ 7-149-65(51571)
स दर्शयन्नेव किरीटिनेऽरिहा
जनार्दनस्तामरिभूमिमञ्जसा।
अजातशत्रुं समुपेत्य पाण्डवं
निवेदयामास हतं जयद्रथम्॥ ॥ 7-149-66(51572)
इति श्रीमन्महाभारते द्रोणपर्वणि जयद्रथवधपर्वणि चतुर्दशदिवसयुद्धे एकोनपञ्चाशदधिकशततमोऽध्यायः॥ 149 ॥
Mahabharata - Drona Parva - Chapter Footnotes
5-149-9 अजिघांसुर्हन्तमनिच्छन्। आचार्यकं गुरोः सम्मानम्॥ 5-149-12 अवासीददवसन्नः॥ 5-149-16 इदं कुलक्षयगुरुद्रोहादिकम्॥ 5-149-18 शरतल्पगतं शरपञ्जरगतम्॥ 5-149-22 अभ्यस्तोऽसकृन्निहतः। दशधर्मगतेन दुरवस्थागतेन॥ 5-149-23 शोचयति शोकं कारयति। एष द्रोणः। भूयोऽधिकं पुत्रवधात्॥ 5-149-24 उपाकृत्य अधीत्य॥ 5-149-27 उपाकुर्वन् आध्यापयन्॥ 5-149-* ततो राजन्हृषीकेश इत्यादि महाप्रभावा बहवस्त्वया तुल्याधिकापि वा इत्यन्ताः सार्धचत्वारः श्लोकाः झ. पुस्तके 146 तमाध्यायस्य 25 तमश्लोकादुपरि विद्यन्ते। 5-149-48 कुण्डलिताः श्लोकाः झ.पुस्तक एव दृश्यन्ते॥ 5-149-149 एकोनपञ्चाशदधिकशततमोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|